|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.210. अध्यायः 210
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ईश्वरेण पार्वतींप्रति ऋषीणां कर्मफलविशेषादिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश तेषां कर्मफलं प्रभो।
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद॥ 13-210-1(89492)
महेश्वर उवाच। 13-210-2x(7470)
वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये॥ 13-210-2(89493)
अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम्।
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा॥ 13-210-3(89494)
उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः।
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम्॥ 13-210-4(89495)
काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम्।
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते॥ 13-210-5(89496)
कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः।
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश॥ 13-210-6(89497)
वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम्।
वीरासनगतो यस्तु कण्टकाफलकाश्रितः।
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम्॥ 13-210-7(89498)
वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम्।
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः॥ 13-210-8(89499)
पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः।
इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश। 13-210-9(89500)
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्।
नागलोकेऽभिजायेत संवत्सरगणान्बहून्॥ 13-210-10(89501)
एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः।
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः॥ 13-210-11(89502)
तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः।
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः॥ 13-210-12(89503)
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ 13-210-13(89504)
उमोवाच। 13-210-14x(7471)
एषां यथा वराणां तु धर्ममिच्छामि मानद।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर॥ 13-210-14(89505)
महेश्वर उवाच। 13-210-15x(7472)
धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा॥ 13-210-15(89506)
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः।
धृतिमन्तःक क्षमायुक्ताः सत्यव्रतपरायणाः॥ 13-210-16(89507)
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः।
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः॥ 13-210-17(89508)
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते।
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः॥ 13-210-18(89509)
दिव्यभूषणसंयुक्ता विमानवरसंयुताः।
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ 13-210-19(89510)
उमोवाच। 13-210-20x(7473)
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो॥ 13-210-20(89511)
महेश्वर उवाच। 13-210-21x(7474)
हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे॥ 13-210-21(89512)
संवहन्तो धुरं दानैः शकटानां तु सर्वदा।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया॥ 13-210-22(89513)
तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः॥ 13-210-23(89514)
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम्॥ 13-210-24(89515)
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ 13-210-25(89516)
उमोवाच। 13-210-26x(7475)
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो॥ 13-210-26(89517)
महेश्वर उवाच। 13-210-27x(7476)
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे।
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा।
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः॥ 13-210-27(89518)
अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे॥ 13-210-28(89519)
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः।
पशुप्रचारनिरताः फेनपाश्च तथा परे॥ 13-210-29(89520)
मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे।
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च॥ 13-210-30(89521)
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम्।
सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः।
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः॥ 13-210-31(89522)
इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः।
अमरैः समतां यान्ति देववद्भोगसंयुताः॥ 13-210-32(89523)
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते।
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ 13-210-33(89524)
उमोवाच। 13-210-34x(7477)
भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान्॥ 13-210-34(89525)
महेस्वर उवाच। 13-210-35x(7478)
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु॥ 13-210-35(89526)
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः॥ 13-210-36(89527)
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः।
भास्करस्येव किरणैः सहसा यान्ति नित्यदा।
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः॥ 13-210-37(89528)
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात्॥ 13-210-38(89529)
महात्मनां तु तपसा सत्येन च शुचिस्मिते।
क्षमया च महाभागे भूतानां संस्थितिं विदुः॥ 13-210-39(89530)
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्॥ 13-210-40(89531)
पञ्चभूतार्थतत्वे च लोकसृष्टिविर्धनम्।
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम्॥ 13-210-41(89532)
तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये।
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये॥ 13-210-42(89533)
अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा।
एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये।
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया॥ 13-210-43(89534)
नारद उवाच। 13-210-44x(7479)
एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः।
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे॥ ॥ 13-210-44(89535)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः॥ 210 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|